॥ श्री गणेशाय नमः ॥
श्रीविष्णुसहस्रनाम
ॐ नमो भगवते वासुदेवाय नम:
ॐ विश्वं विष्णु:-वषठ्कारो भूत-भव्य-भवत-प्रभुः ।
भूत-कृत भूत-भृत भावो भूतात्मा भूतभावनः ॥१॥
पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः पुरुशः साक्षी क्षेत्रज्ञो अक्षर एव च ॥२॥
योगो योग-विदां नेता प्रधान-पुरुशेश्वरः ।
नारसिंह-वपुः श्रीमान केशवः पुरुशोत्तमः ॥३॥
सर्वः शर्वः शिवः स्थाणु: भूतादि: निधि:-अव्ययः ।
संभवो भावनो भर्ता प्रभवः प्रभु:-ईश्वरः ॥४॥
स्वयंभूः शम्भु: आदित्यः पुष्कराक्षो महास्वनः ।
अनादि-निधनो धाता विधाता धातुरुत्तमः ॥५॥
अप्रमेयो हृषीकेशः पद्मनाभो-अमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥६॥
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतः त्रिककुब-धाम पवित्रं मंगलं परं ॥७॥
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्य-गर्भो भू-गर्भो माधवो मधुसूदनः ॥८॥
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृति:-आत्मवान ॥९॥
सुरेशः शरणं शर्म विश्व-रेताः प्रजा-भवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥१०॥
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादि:-अच्युतः ।
वृषाकपि:-अमेयात्मा सर्व-योग-विनिःसृतः ॥११॥
वसु:-वसुमनाः सत्यः समात्मा संमितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥१२॥
रुद्रो बहु-शिरा बभ्रु: विश्वयोनिः-शुचि-श्रवाः ।
अमृतः शाश्वतः-स्थाणु:-वरारोहो महातपाः ॥१३॥
सर्वगः सर्वविद्-भानु:-विष्वक-सेनो जनार्दनः ।
वेदो वेदविद-अव्यंगो वेदांगो वेदवित् कविः ॥१४॥
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृता-कृतः ।
चतुरात्मा चतु:-व्यूह:-चतु:-दंष्ट्र:-चतु:-भुजः ॥१५॥
भ्राजिष्णु:-भोजनं भोक्ता सहिष्णु:-जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥१६॥
उपेंद्रो वामनः प्रांशु:-अमोघः शुचि:-ऊर्जितः ।
अतींद्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥१७॥
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अति-इंद्रियो महामायो महोत्साहो महाबलः ॥१८॥
महाबुद्धि:-महा-वीर्यो महा-शक्ति: महा-द्युतिः ।
अनिर्देश्य-वपुः श्रीमान अमेयात्मा महाद्रि-धृक ॥१९॥
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानंदो गोविंदो गोविदां-पतिः ॥२०॥
मरीचि:-दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥२१॥
अमृत्युः सर्व-दृक् सिंहः सन-धाता संधिमान स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥२२॥
गुरुः-गुरुतमो धामः सत्यः-सत्य-पराक्रमः ।
निमिषो-अ-निमिषः स्रग्वी वाचस्पति:-उदार-धीः ॥२३॥
अग्रणी:-ग्रामणीः श्रीमान न्यायो नेता समीरणः ।
सहस्र-मूर्धा विश्वात्मा सहस्राक्षः सहस्रपात ॥२४॥
आवर्तनो निवृत्तात्मा संवृतः सं-प्रमर्दनः ।
अहः संवर्तको वह्निः अनिलो धरणीधरः ॥२५॥
सुप्रसादः प्रसन्नात्मा विश्वधृक्-विश्वभुक्-विभुः ।
सत्कर्ता सकृतः साधु: जह्नु:-नारायणो नरः ॥२६॥
असंख्येयो-अप्रमेयात्मा विशिष्टः शिष्ट-कृत्-शुचिः ।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ॥२७॥
वृषाही वृषभो विष्णु:-वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुति-सागरः ॥२८॥
सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसुः ।
नैक-रूपो बृहद-रूपः शिपिविष्टः प्रकाशनः ॥२९॥
ओज:-तेजो-द्युतिधरः प्रकाश-आत्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मंत्र:-चंद्रांशु:-भास्कर-द्युतिः ॥३०॥
अमृतांशूद्भवो भानुः शशबिंदुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्य-धर्म-पराक्रमः ॥३१॥
भूत-भव्य-भवत्-नाथः पवनः पावनो-अनलः ।
कामहा कामकृत-कांतः कामः कामप्रदः प्रभुः ॥३२॥
युगादि-कृत युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजित्-अनंतजित ॥३३॥
इष्टो विशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः ।
क्रोधहा क्रोधकृत कर्ता विश्वबाहु: महीधरः ॥३४॥
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपाम निधिरधिष्टानम् अप्रमत्तः प्रतिष्ठितः ॥३५॥
स्कन्दः स्कन्द-धरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद भानु: आदिदेवः पुरंदरः ॥३६॥
अशोक:-तारण:-तारः शूरः शौरि:-जनेश्वर: ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥३७॥
पद्मनाभो-अरविंदाक्षः पद्मगर्भः शरीरभृत ।
महर्धि-ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥३८॥
अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षण लक्षण्यो लक्ष्मीवान समितिंजयः ॥३९॥
विक्षरो रोहितो मार्गो हेतु: दामोदरः सहः ।
महीधरो महाभागो वेगवान-अमिताशनः ॥४०॥
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥४१॥
व्यवसायो व्यवस्थानः संस्थानः स्थानदो-ध्रुवः ।
परर्र्द्विः परमस्पष्टः-तुष्टः पुष्टः शुभेक्शणः ॥४२॥
रामो विरामो विरजो मार्गो नेयो नयो-अनयः ।
वीरः शक्तिमतां श्रेष्टः धर्मो धर्मविदुत्तमः ॥४३॥
वैकुंठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥४४॥
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्व-दक्षिणः ॥४५॥
विस्तारः स्थावर: स्थाणुः प्रमाणं बीजमव्ययम ।
अर्थो अनर्थो महाकोशो महाभोगो महाधनः ॥४६॥
अनिर्विण्णः स्थविष्ठो- अभूर्धर्म-यूपो महा-मखः ।
नक्षत्रनेमि: नक्षत्री क्षमः क्षामः समीहनः ॥४७॥
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमं ॥४८॥
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत ।
मनोहरो जित-क्रोधो वीरबाहुर्विदारणः ॥४९॥
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥५०॥
धर्मगुब धर्मकृद धर्मी सदसत्क्षरं-अक्षरं ।
अविज्ञाता सहस्त्रांशु: विधाता कृतलक्षणः ॥५१॥
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद गुरुः ॥५२॥
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीर भूतभृद्भोक्ता कपींद्रो भूरिदक्षिणः ॥५३॥
सोमपो-अमृतपः सोमः पुरुजित पुरुसत्तमः ।
विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ॥५४॥
जीवो विनयिता-साक्षी मुकुंदो-अमितविक्रमः ।
अम्भोनिधिरनंतात्मा महोदधिशयो-अंतकः ॥५५॥
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनंदो नंदनो नंदः सत्यधर्मा त्रिविक्रमः ॥५६॥
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाश्रृंगः कृतांतकृत ॥५७॥
महावराहो गोविंदः सुषेणः कनकांगदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्र-गदाधरः ॥५८॥
वेधाः स्वांगोऽजितः कृष्णो दृढः संकर्षणो-अच्युतः ।
वरूणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥५९॥
भगवान भगहानंदी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहीष्णु:-गतिसत्तमः ॥६०॥
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवि:-स्पृक् सर्वदृक व्यासो वाचस्पति:-अयोनिजः ॥६१॥
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक ।
संन्यासकृत्-छमः शांतो निष्ठा शांतिः परायणम ॥६२॥
शुभांगः शांतिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥६३॥
अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृत्-शिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ॥६४॥
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमाऩ्-लोकत्रयाश्रयः ॥६५॥
स्वक्षः स्वंगः शतानंदो नंदिर्ज्योतिर्गणेश्वर: ।
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥६६॥
उदीर्णः सर्वत:-चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥६७॥
अर्चिष्मानर्चितः कुंभो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥६८॥
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥६९॥
कामदेवः कामपालः कामी कांतः कृतागमः ।
अनिर्देश्यवपुर्विष्णु: वीरोअनंतो धनंजयः ॥७०॥
ब्रह्मण्यो ब्रह्मकृत् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥७१॥
महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥७२॥
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥७३॥
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥७४॥
सद्गतिः सकृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥७५॥
भूतावासो वासुदेवः सर्वासुनिलयो-अनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरो-अथापराजितः ॥७६॥
विश्वमूर्तिमहार्मूर्ति: -दीप्तमूर्ति:-अमूर्तिमान ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥७७॥
एको नैकः सवः कः किं यत-तत-पदमनुत्तमम ।
लोकबंधु:-लोकनाथो माधवो भक्तवत्सलः ॥७८॥
सुवर्णोवर्णो हेमांगो वरांग:चंदनांगदी ।
वीरहा विषमः शून्यो घृताशीरऽचलश्चलः ॥७९॥
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥८०॥
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकश्रृंगो गदाग्रजः ॥८१॥
चतुर्मूर्ति:-चतुर्बाहु: -श्चतुर्व्यूह:-चतुर्गतिः ।
चतुरात्मा चतुर्भाव:चतुर्वेदविदेकपात ॥८२॥
समावर्तो-अनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥८३॥
शुभांगो लोकसारंगः सुतंतुस्तंतुवर्धनः ।
इंद्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥८४॥
उद्भवः सुंदरः सुंदो रत्ननाभः सुलोचनः ।
अर्को वाजसनः श्रृंगी जयंतः सर्वविज-जयी ॥८५॥
सुवर्णबिंदुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधः ॥८६॥
कुमुदः कुंदरः कुंदः पर्जन्यः पावनो-अनिलः ।
अमृताशो-अमृतवपुः सर्वज्ञः सर्वतोमुखः ॥८७॥
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधो.औदुंबरो-अश्वत्थ: -चाणूरांध्रनिषूदनः ॥८८॥
सहस्रार्चिः सप्तजिव्हः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघो-अचिंत्यो भयकृत्-भयनाशनः ॥८९॥
अणु:-बृहत कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥९०॥
भारभृत्-कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥९१॥
धनुर्धरो धनुर्वेदो दंडो दमयिता दमः ।
अपराजितः सर्वसहो नियंता नियमो यमः ॥९२॥
सत्त्ववान सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्हो-अर्हः प्रियकृत-प्रीतिवर्धनः ॥९३॥
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥९४॥
अनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः ॥९५॥
सनात्-सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत स्वस्ति स्वस्तिभुक स्वस्तिदक्षिणः ॥९६॥
अरौद्रः कुंडली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥९७॥
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥९८॥
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः संतो जीवनः पर्यवस्थितः ॥९९॥
अनंतरूपो-अनंतश्री: जितमन्यु: भयापहः ।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥१००॥
अनादिर्भूर्भुवो लक्ष्मी: सुवीरो रुचिरांगदः ।
जननो जनजन्मादि: भीमो भीमपराक्रमः ॥१०१॥
आधारनिलयो-धाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥१०२॥
प्रमाणं प्राणनिलयः प्राणभृत प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्यु जरातिगः ॥१०३॥
भूर्भवः स्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहनः ॥१०४॥
यज्ञभृत्-यज्ञकृत्-यज्ञी यज्ञभुक्-यज्ञसाधनः ।
यज्ञान्तकृत- यज्ञगुह्यमन्नमन्नाद एव च ॥१०५॥
आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।
देवकीनंदनः स्रष्टाक्षितीशः पापनाशनः ॥१०६॥
शंखभृन्नंदकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथांगपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥१०७॥
सर्वप्रहरणायुध ॐ नमः इति ।
वनमालि गदी शार्ङ्गी शंखी चक्री च नंदकी ।
श्रीमान् नारायणो विष्णु:-वासुदेवोअभिरक्षतु ॥
Please login to save favourites.
॥ Shri Ganeshay Namah ॥
Shrivishnushasrnam
Om Namo Bhagvte Vasudevay Nam:
Om Vishvam Vishnu:-Vashathkaaro Bhut-Bhavy-Bhavat-Prabhuh .
Bhut-Krit Bhut-Bhrit Bhavo Bhutatma Bhutbhavnah ॥1॥
Putatma Paramatma Cha Muktaanaam Paramaa Gatih .
Avyyah Purushah Sakshi Kshetrajno Akshar Ev Ch ॥2॥
Yogo Yoga-Vidaam Neta Pradhan-Purusheshvrah .
Narsinh-Vapuh Shriman Keshvah Purushottmah ॥3॥
Sarvah Sharvah Shivah Sthanu: Bhutadi: Nidhi:-Avyyah .
Sambhvo Bhavno Bharta Prabhvah Prabhu:-Ishvrah ॥4॥
Svayambhuh Shambhu: Adityah Pushkraksho Mahasvnah .
Anadi-Nidhno Dhata Vidhata Dhaturuttmah ॥5॥
Aprmeyo Hrishikeshah Padmnabho-Amraprbhuh .
Vishvkarma Manustvashta Sthavishthah Sthaviro Dhruvah ॥6॥
Agrahyah Shashvtah Krishno Lohitakshah Pratardnah .
Prabhutah Trikkub-Dham Pavitram Mangalam Param ॥7॥
Ishanah Prandah Prano Jyeshthah Shreshthah Prajaptih .
Hirany-Garbho Bhu-Garbho Madhvo Madhusudnah ॥8॥
Ishvro Vikrmi Dhanvi Medhavi Vikrmah Kramah .
Anuttmo Duradharshah Kritajnah Kriti:-Atmvan ॥9॥
Sureshah Sharanam Sharma Vishv-Retah Praja-Bhavah .
Ahah Sanvatsro Vyalah Pratyyah Sarvdarshnah ॥10॥
Ajah Sarveshvrah Siddhah Siddhih Sarvadi:-Achyutah .
Vrishakpi:-Ameyatma Sarv-Yoga-Vinihsritah ॥11॥
Vasu:-Vasumnah Satyah Samatma Sammitah Samah .
Amoghah Pundrikaksho Vrishkarma Vrishakritih ॥12॥
Rudro Bahu-Shira Babhru: Vishvyonih-Shuchi-Shravah .
Amritah Shashvtah-Sthanu:-Vararoho Mahatpah ॥13॥
Sarvgah Sarvvid-Bhanu:-Vishvak-Seno Janardnah .
Vedo Vedvid-Avyango Vedango Vedvit Kavih ॥14॥
Lokadhyakshah Suradhyaksho Dharmadhyakshah Krita-Kritah .
Chaturatma Chatu:-Vyuh:-Chatu:-Danshtr:-Chatu:-Bhujah ॥15॥
Bhraajishnu:-Bhojanam Bhokta Sahishnu:-Jagdadijah .
Angho Vijyo Jeta Vishvyonih Punarvsuh ॥16॥
Upendro Vamnah Pranshu:-Amoghah Shuchi:-Urjitah .
Atindrah Sangrhah Sargo Dhritatma Niymo Yamah ॥17॥
Vedyo Vaidyah Sadayogi Virha Madhvo Madhuh .
Ati-Indriyo Mahamayo Mahotsaho Mahablah ॥18॥
Mahabuddhi:-Maha-Viryo Maha-Shakti: Maha-Dyutih .
Anirdeshy-Vapuh Shriman Ameyatma Mahadri-Dhrik ॥19॥
Maheshvaso Mahibharta Shrinivaasah Sataam Gatih .
Aniruddhah Suranando Govindo Govidaam-Patih ॥20॥
Marichi:-Damno Hansah Suparno Bhujgottmah .
Hiranynabhah Sutpah Padmnabhah Prajaptih ॥21॥
Amrityuh Sarv-Drik Sinhah San-Dhata Sandhiman Sthirah .
Ajo Durmarshnah Shasta Vishrutatma Surariha ॥22॥
Guruh-Gurutmo Dhamah Satyah-Saty-Parakrmah .
Nimisho-A-Nimishah Sragvi Vachaspti:-Udar-Dhih ॥23॥
Agrni:-Gramnih Shriman Nyayo Neta Samirnah .
Sahasr-Murdha Vishvatma Sahasrakshah Sahasrpat ॥24॥
Avartno Nivrittatma Sanvritah Sam-Pramardanah .
Ahah Sanvartko Vahnih Anilo Dharnidhrah ॥25॥
Suprsadah Prasannatma Vishvadhrik-Vishvbhuk-Vibhuh .
Satkarta Sakritah Sadhu: Jahnu:-Narayno Narah ॥26॥
Asankhyeyo-Aprmeyatma Vishishtah Shisht-Krit-Shuchih .
Siddharthah Siddhsankalpah Siddhidah Siddhisadhnah ॥27॥
Vrishahi Vrishbho Vishnu:-Vrishparva Vrishodrah .
Vardhno Vardhmanashch Viviktah Shruti-Sagrah ॥28॥
Subhujo Durdhro Vagmi Mahendro Vasudo Vasuh .
Naik-Rupo Brihad-Rupah Shipivishtah Prakashnah ॥29॥
Oj:-Tejo-Dyutidhrah Prakash-Atma Pratapnah .
Riddhah Spashtakshro Mantra:-Chandranshu:-Bhaskar-Dyutih ॥30॥
Amritanshudbhvo Bhanuh Shashbinduh Sureshvrah .
Aushadham Jagatah Setuh Saty-Dharma-Parakrmah ॥31॥
Bhut-Bhavy-Bhavat-Nathah Pavnah Pavno-Anlah .
Kamha Kamakrit-Kantah Kamah Kamaprdah Prabhuh ॥32॥
Yugadi-Krit Yugavarto Naikmayo Mahashnah .
Adrishyo Vyaktrupashch Sahasrjit-Anantjit ॥33॥
Ishto Vishishtah Shishteshtah Shikhandi Nahusho Vrishah .
Krodhha Krodhakrit Karta Vishvbahu: Mahidhrah ॥34॥
Achyutah Prathitah Pranah Prando Vasvanujah .
Apaama Nidhiradhishtaanam Aprmattah Pratishthitah ॥35॥
Skandah Skand-Dharo Dhuryo Vardo Vayuvahnah .
Vasudevo Brihad Bhanu: Adidevah Purandrah ॥36॥
Ashok:-Taran:-Tarah Shurah Shauri:-Janeshvar: .
Anukulah Shatavartah Padmi Padmnibhekshnah ॥37॥
Padmnabho-Arvindakshah Padmgarbhah Sharirabhrit .
Mahardhi-Riddho Vriddhatma Mahaksho Garudadhvjah ॥38॥
Atulah Sharbho Bhimah Samyajno Havirhrih .
Sarvlakshan Lakshanyo Lakshmivan Samitinjyah ॥39॥
Vikshro Rohito Margo Hetu: Damodrah Sahah .
Mahidhro Mahabhago Vegvan-Amitashnah ॥40॥
Udbhvah Kshobhno Devah Shrigarbhah Parmeshvrah .
Karanam Kaaranam Kartaa Vikarta Gahno Guhah ॥41॥
Vyavsayo Vyavasthanah Sansthanah Sthando-Dhruvah .
Pararrdvih Parmaspashtah-Tushtah Pushtah Shubhekshnah ॥42॥
Ramo Viramo Virjo Margo Neyo Nayo-Anyah .
Virah Shaktimataam Shreshtah Dharmo Dharmviduttmah ॥43॥
Vaikunthah Purushah Pranah Prandah Pranvah Prithuh .
Hiranygarbhah Shatrughno Vyapto Vayurdhokshjah ॥44॥
Rituh Sudarshnah Kalah Parmeshthi Parigrhah .
Ugrah Sanvatsro Daksho Vishramo Vishv-Dakshinah ॥45॥
Vistarah Sthavar: Sthaanuh Pramaanam Bijamavyayama .
Artho Anartho Mahakosho Mahabhogo Mahadhnah ॥46॥
Anirvinnah Sthavishtho- Abhurdharm-Yupo Maha-Makhah .
Nakshatrnemi: Nakshatri Kshamah Kshamah Samihnah ॥47॥
Yagya Ijyo Mahejyashch Kratuh Satram Sataam Gatih .
Sarvdarshi Vimuktatma Sarvajno Jnaanamuttamam ॥48॥
Suvrtah Sumukhah Sukshmah Sughoshah Sukhdah Suhrit .
Manohro Jit-Krodho Virbahurvidarnah ॥49॥
Svapnah Svavsho Vyapi Naikatma Naikkarmakrit .
Vatsro Vatslo Vatsi Ratngarbho Dhaneshvrah ॥50॥
Dharmgub Dharmakrid Dharmi Sadasatksharam-Aksharam .
Avijnata Sahastranshu: Vidhata Kritlakshnah ॥51॥
Gabhastinemih Sattvasthah Sinho Bhutmheshvrah .
Adidevo Mahadevo Devesho Devabhrid Guruh ॥52॥
Uttro Goptirgopta Jnangamyah Puratnah .
Sharir Bhutabhridbhokta Kapindro Bhuridakshinah ॥53॥
Sompo-Amritpah Somah Purujit Purusattmah .
Vinyo Jayah Satysandho Daashaarhah Saatvataam Patih ॥54॥
Jivo Vinyita-Sakshi Mukundo-Amitvikrmah .
Ambhonidhirnantatma Mahoddhishyo-Antkah ॥55॥
Ajo Maharhah Svabhavyo Jitamitrah Pramodnah .
Anando Nandno Nandah Satydharma Trivikrmah ॥56॥
Maharshih Kapilacharyah Kritajno Mediniptih .
Tripdastridshadhyaksho Mahashrringah Kritantakrit ॥57॥
Mahavraho Govindah Sushenah Kankangdi .
Guhyo Gabhiro Gahno Guptashchakr-Gadadhrah ॥58॥
Vedhaah Svaangojitah Krishno Dridhah Sankarshno-Achyutah .
Varuno Varuno Vrikshah Pushkraksho Mahamnah ॥59॥
Bhagwan Bhaghanandi Vanmali Halayudhah .
Adityo Jyotiradityah Sahishnu:-Gatisattmah ॥60॥
Sudhanva Khandprshurdaruno Dravinaprdah .
Divi:-Sprik Sarvadrik Vyaso Vachaspti:-Ayonijah ॥61॥
Trisama Samgah Sam Nirvaanam Bheshajam Bhishaka .
Sannyasakrit-Chhhamah Shanto Nishtha Shantih Paraynam ॥62॥
Shubhangah Shantidah Srashta Kumudah Kuvleshyah .
Gohito Goptirgopta Vrishbhaksho Vrishapriyah ॥63॥
Anivarti Nivrittatma Sankshepta Kshemakrit-Shivah .
Shrivatsvakshah Shrivasah Shripatih Shrimataam Varah ॥64॥
Shridah Shrishah Shrinivasah Shrinidhih Shrivibhavnah .
Shridhrah Shrikrah Shreyah Shrimaṉ-Lokatryashryah ॥65॥
Svakshah Svangah Shatanando Nandirjyotirgneshvar: .
Vijitatma Vidheyatma Satkirtishchhhinnsanshyah ॥66॥
Udirnah Sarvat:-Chakshurnishah Shashvtasthirah .
Bhushyo Bhushno Bhutirvishokah Shoknashnah ॥67॥
Archishmanarchitah Kumbho Vishuddhatma Vishodhnah .
Aniruddhopratirathah Pradyumnomitavikramah ॥68॥
Kalneminiha Virah Shaurih Shurjneshvrah .
Trilokatma Trilokeshah Keshvah Keshiha Harih ॥69॥
Kamdevah Kampalah Kami Kantah Kritagmah .
Anirdeshyvpurvishnu: Viroananto Dhananjyah ॥70॥
Brahmanyo Brahmakrit Brahma Brahm Brahmvivardhnah .
Brahmvid Brahmno Brahmi Brahmajno Brahmnapriyah ॥71॥
Mahakrmo Mahakarma Mahateja Mahorgah .
Mahakrturmhayajva Mahayajno Mahahvih ॥72॥
Stavyah Stavapriyah Stotram Stutih Stotaa Ranapriyah .
Purnah Puryita Punyah Punykirtirnamyah ॥73॥
Manojvastirthkro Vasureta Vasuprdah .
Vasuprdo Vasudevo Vasurvsumna Havih ॥74॥
Sadgtih Sakritih Satta Sadbhutih Satpraynah .
Shurseno Yadushreshthah Sannivasah Suyamunah ॥75॥
Bhutavaso Vasudevah Sarvasunilyo-Anlah .
Darpha Darpdo Dripto Durdhro-Athaprajitah ॥76॥
Vishvmurtimharmurti: -Diptmurti:-Amurtiman .
Anekmurtiravyaktah Shatmurtih Shatannah ॥77॥
Eko Naikah Savah Kah Kin Yat-Tat-Padmnuttmam .
Lokbandhu:-Loknatho Madhvo Bhaktvatslah ॥78॥
Suvarnovarno Hemango Varang:Chandnangdi .
Virha Vishmah Shoonyo Ghritaashirachalashchalah ॥79॥
Amani Mando Manyo Lokasvami Trilokadhrik .
Sumedha Medhjo Dhanyah Satymedha Dharadhrah ॥80॥
Tejovrisho Dyutidhrah Sarvashastrabhritaam Varah .
Pragrho Nigrho Vyagro Naikashrringo Gadagrjah ॥81॥
Chaturmurti:-Chaturbahu: -Shchaturvyuh:-Chaturgtih .
Chaturatma Chaturbhav:Chaturvedvidekpat ॥82॥
Samavarto-Anivrittatma Durjyo Durtikrmah .
Durlbho Durgmo Durgo Duravaso Durariha ॥83॥
Shubhango Loksarangah Sutantustantuvardhnah .
Indrkarma Mahakarma Kritkarma Kritagmah ॥84॥
Udbhvah Sundrah Sundo Ratnnabhah Sulochnah .
Arko Vajsnah Shrringi Jayantah Sarvvij-Jayi ॥85॥
Suvarnbindurakshobhyah Sarvvagishvreshvrah .
Mahahrdo Mahagarto Mahabhuto Mahanidhah ॥86॥
Kumudah Kundrah Kundah Parjanyah Pavno-Anilah .
Amritasho-Amritvpuh Sarvajnah Sarvtomukhah ॥87॥
Sulbhah Suvrtah Siddhah Shatrujichchhhatrutapnah .
Nyagrodho.Audumbro-Ashvatth: -Chanurandhrnishudnah ॥88॥
Sahasrarchih Saptjivhah Saptaidhah Saptvahnah .
Amurtirngho-Achintyo Bhayakrit-Bhaynashnah ॥89॥
Anu:-Brihat Krishah Sthulo Gunabhrinnirguno Mahan .
Adhritah Svadhritah Svasyah Pragvansho Vanshvardhnah ॥90॥
Bharabhrit-Kathito Yogi Yogishah Sarvkamdah .
Ashrmah Shramnah Kshamah Suparno Vayuvahnah ॥91॥
Dhanurdhro Dhanurvedo Dando Damyita Damah .
Aprajitah Sarvsho Niyanta Niymo Yamah ॥92॥
Sattvvan Sattvikah Satyah Satydharmpraynah .
Abhiprayah Priyarho-Arhah Priyakrit-Pritivardhnah ॥93॥
Vihaysgtirjyotih Suruchirhutbhug Vibhuh .
Ravirvirochnah Suryah Savita Ravilochnah ॥94॥
Ananto Hutbhugbhokta Sukhado Naikajograjah .
Anirvinnah Sadamarshi Lokdhishthanmadbhutah ॥95॥
Sanat-Sanatntmah Kapilah Kapiravyyah .
Svastidah Svastikrit Svasti Svastibhuk Svastidakshinah ॥96॥
Araudrah Kundli Chakri Vikramyurjitshasnah .
Shabdatigah Shabdshah Shishirah Sharvrikrah ॥97॥
Akrurah Peshlo Daksho Dakshinah Kshaminaam Varah .
Vidvattmo Vitbhyah Punyashrvnkirtnah ॥98॥
Uttarno Dushkritiha Punyo Duhsvapnnashnah .
Virha Rakshnah Santo Jivnah Paryvasthitah ॥99॥
Anantrupo-Anantashri: Jitmanyu: Bhayaphah .
Chaturashro Gabhiratma Vidisho Vyadisho Dishah ॥100॥
Anadirbhurbhuvo Lakshmi: Suviro Ruchirangdah .
Janno Janjanmadi: Bhimo Bhimprakrmah ॥101॥
Adharnilyo-Dhata Pushphasah Prajagrah .
Urdhvgah Satpthacharah Prandah Pranvah Panah ॥102॥
Pramaanam Praananilayah Pranabhrit Pranjivnah .
Tattvam Tattvavidekaatmaa Janmamrityu Jaratigah ॥103॥
Bhurbhvah Svastrustarah Savita Prapitamhah .
Yajno Yajnptiryajva Yajnango Yajnvahnah ॥104॥
Yajnabhrit-Yajnakrit-Yajni Yajnbhuk-Yajnsadhnah .
Yajnantakrit- Yajnguhymannmannad Ev Ch ॥105॥
Atmyonih Svayanjato Vaikhanah Samgaynah .
Devkinandnah SrashtaKshitishah Papnashnah ॥106॥
Shankhabhrinnandki Chakri Sharngdhanva Gadadhrah .
Rathangpanirakshobhyah Sarvaprhrnayudhah ॥107॥
Sarvaprhrnayudh Om Namah Iti .
Vanmali Gadi Sharngi Shankhi Chakri Ch Nandki .
Shriman Narayno Vishnu:-Vasudevoabhirakshtu ॥