Follow UsInstagram
मधुराष्टकम्

मधुराष्टकम्

महाप्रभु श्री वल्लभाचार्य द्वारा रचित मधुराष्टक में श्रीकृष्ण के बालरूप की अनुपम माधुर्यता का रसपूर्ण वर्णन है — प्रभु का प्रत्येक अंग, प्रत्येक लीला और प्रत्येक भाव मधुर है। उनके संग से सम्पूर्ण सजीव और निर्जीव जगत भी मधुरता में स्नान कर लेता है।

अधरं मधुरं वदनं मधुरं, नयनं मधुरं हसितं मधुरम् ।

हृदयं मधुरं गमनं मधुरं, मधुराधिपतेः अखिलं मधुरम्॥

वचनं मधुरं चरितं मधुरं, वसनं मधुरं वलितं मधुरम् ।

चलितं मधुरं भ्रमितं मधुरं, मधुराधिपतेः अखिलं मधुरम्॥

वेणुर्मधुरो रेणुर्मधुरः, पाणिर्मधुरः पादौ मधुरौ ।

नृत्यं मधुरं सख्यं मधुरं, मधुराधिपतेः अखिलं मधुरम्॥

गीतं मधुरं पीतं मधुरं, भुक्तं मधुरं सुप्तं मधुरम् ।

रूपं मधुरं तिलकं मधुरं, मधुराधिपतेः अखिलं मधुरम्॥

करणं मधुरं तरणं मधुरं, हरणं मधुरं स्मरणं मधुरम् ।

वमितं मधुरं शमितं मधुरं, मधुराधिपतेः अखिलं मधुरम्॥

गुञ्जा मधुरा माला मधुरा, यमुना मधुरा वीची मधुरा ।

सलिलं मधुरं कमलं मधुरं, मधुराधिपतेः अखिलं मधुरम्॥

गोपी मधुरा लीला मधुरा, युक्तं मधुरं मुक्तं मधुरम् ।

दृष्टं मधुरं शिष्टं मधुरं, मधुराधिपतेः अखिलं मधुरम्॥

गोपा मधुरा गावो मधुरा, यष्टिर्मधुरा सृष्टिर्मधुरा ।

दलितं मधुरं फलितं मधुरं, मधुराधिपतेः अखिलं मधुरम्॥

Please login to save favourites.

You cannot copy content of this page